________________
EMAMANGALORECAST
प्रज्ञप्तानि, इह च शतशब्देनाध्ययनान्युच्यन्ते, तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अत्रान्तराध्ययनखभावानि तदवगमावगम्यानीति ॥ ८१॥
जम्बुद्दीवे दीवे बासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरइ तं०-निक्खममाणे य पविसमाणे य, समणे भगवं महावीरे बासीए राइदिएहिं वीइक्वंतेहिं गन्माओ गम्भं साहरिए, महाहिमवतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एस णं बासीइं जोयणसयाइं अबाहाए अंतरे प०, एवं रुप्पिस्सवि ॥ सूत्रं ८२॥
अथ व्यशीतिस्थानके किमपि लिख्यते, अत्र जम्बूद्वीपे व्यशीत्यधिकं मण्डलशतं-सूर्यस्य मार्गशतं तद्भवतीति वाक्यशेषः, किंभूतं ?-यत् सूर्यो द्विकृत्वो-द्वौ वारौ सङ्कम्य-प्रविश्य चारं चरति, तद्यथा-निष्क्रामंश्च जम्बूद्वीपात् प्रविशंश्च जम्बूद्वीप एवेति, अयमत्र भावार्थः-किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाह्ये | सकृदेव सङ्कामति शेषाणि तु द्वौ वाराविति, इह च व्यशीतिविवक्षयैवेदं व्यशीतिस्थानकेऽधीतमिति भावनीयं, यद्यपि जम्बूद्वीपे पञ्चषष्टिरेव मण्डलानां भवति तथापि जम्बूद्वीपादिकसूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति, 'समणे' इत्यादि आषाढस्य शुक्लपक्षषष्ठ्या आरभ्य यशीत्यां रात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमे वर्तमाने अश्वयुजः कृष्णत्रयोदश्यामित्यर्थः, गर्भात्-गर्भाशयाद्देवानंदाबामणीकुक्षित इत्यर्थः गर्भ-त्रिशलाभिधान-2 क्षत्रियाकुक्षिं संहृतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदं च सूत्रं यशीतिरात्रिन्दिवान्यधिकृत्य
Jain Education
For Personal & Private Use Only
M
ainelibrary.org