________________
CARROREGA%
काष्ठदन्तलोहताम्ररजतादयो अक्षराणामाधारास्तथा लेखनोत्कीर्णनस्यूतव्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाप्यनेकधा-खामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखविषयाणामप्यनेकत्वात्तथाविधप्रयोजनभेदाच, अक्षरदोषाश्चैते-'अतिकायमतिस्थौल्यं, वैषम्यं पतिवक्रता। अतुल्यानां च सादृश्यमभागोऽवयवेषु च ॥१॥' इति,१ तथा गणितं-सङ्ख्यानं सङ्कलिताधनेकभेदं पाटीप्रसिद्धं २ रूप्यं-लेप्यशिलासुवर्णमणिवस्त्रचित्रादिषु रूपनिर्माणं ३ नाट्यकला-भरतमार्गच्छलिकं लास्यविधानमित्यादिभेदादष्टधा नाट्यग्रहणात् नृत्यकलापि गृहीता, सा च अभिनयिका अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयं ४ तथा गीतकला, सा च निबन्धमार्ग-छलिकमार्ग-भिन्नमार्गभेदात् त्रिधा, तत्र 'सप्त खरास्त्रयो ग्रामा, मूर्च्छना एकविंशतिः।ताना एकोनपञ्चाशत्, समाप्तं खरमण्डलम् ॥१॥' इयं च विशाखिलशास्त्रादवसेयेति, ५ 'वाइयंति वाद्यकला, सा च ततविततशुषिरघनवाद्यानां चतुष्पञ्च(व्ये)कप्रकारतया त्रयोदशधा ६ इत्यादिकः कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामान्युपलभ्यन्ते, तत्र च कासांचित् कासुचिदन्तर्भावोऽवगन्तव्य इति ॥ ७२॥ । हरिवासरम्मयवासयाओ णं जीवाओ तेवत्तरि २ जोयणसहस्साई नव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोय
णस्स अद्धभागं च आयामेणं प०, विजए णं बलदेवे तेवत्तरिं वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे ॥ सूत्रं ७३ ॥
AR
Jain Education A
linal
For Personal & Private Use Only
N
ainelibrary.org