SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ यांगे श्रीसमवातथा आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल |७१ समचन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽपरञ्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया वाया. श्रीअभय० चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्राववृत्तिः कृष्णपक्षस्य चन्द्रदिनपट्के साधिके पूर्यते युगसंवत्सरत्रयं त्वाषाढ्या, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणा-18 16 यनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशो॥८२॥ त्तरशततमे खकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिमण्डलानि तावत्खेव दिनेषु मार्गशीर्षादीनां चतुर्णा हैमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनानिवृत्त्योत्तरायणेन चरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत"बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २। बहुलस्स य पाडिवए ३ बहुलस्स य तेरसीदिवसे ४ ॥१॥ सुद्धस्स य दसमीए ५पवत्तए पंचमी उ आउट्टी। एआ आउट्टीओ सबाओ माघमासंमि ॥२॥" त्ति, दक्षिणायनदिनानि चैवं-“पढमा बहुलपडिवए १ बीया बहुलस्स तेरसी दिवसे २। सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ॥१॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी। एया आउट्टीओ सबाओ सावणे मासे ॥२॥" ति । 'विरियपुवस्स'त्ति तृतीयपूर्वस्य 'पाहुड'त्ति प्राभृतमधिकारविशेषः । “अजिए'इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि - RAKASHARA ॥८२॥ 42447 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy