________________
यावदुत्कृष्टस्थितिकर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्-"मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं| दत्वं । सेसे विसेसहीणं जावुक्कोसन्ति सवासिं ॥१॥” इति [मुक्त्वा खकीयामबाधां प्रथमायां स्थितौ बहुतरं द्रव्यं ।। |शेषायां विशेषहीनं यावदुत्कृष्टां सर्वासां ॥ १ ॥] 'बाधृ लोडने' बाधत इति बाधा कर्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषको भवतीत्येवमेके प्राहुः, अन्ये | पुनराहुः-अबाधाकालेन-वर्षसहस्रसप्तकलक्षणेनोना कर्मस्थितिः-सप्तसहस्राधिकसप्ततिसागरोपमकोटाकोटीलक्षणा, कर्मनिषको भवति, स च कियान् ?, उच्यते-'सत्तरं सागरोवमकोडाकोडीओ'त्ति ॥७॥..
चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइदिएहिं वीइक्कतेहिं सव्वबाहिराओ मंडलाओ सूरिए आउट्टि करेइ, वीरियप्पवायस्स णं पुन्वस्स एक्कसत्तरं पाहुडा प०, अजिते णं अरहा एक्कसत्तरं पुव्वसयसहस्साई अगारमज्झे वसित्ता मुंडे भ- । वित्ता जाव पव्वइए, एवं सगरोवि राया चाउरंतचक्कवट्टी एक्कसत्तरं पुव्व जाव पव्वइएत्ति ॥ सूत्रं ७१॥
अथैकसप्ततिस्थानके किञ्चित् लिख्यते-'चउत्थस्से'त्यादि, इह भावार्थोऽयं-युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनानां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्रचन्द्राभिवर्द्धितलक्षणे संवत्सरत्रये दिनानां सहस्रं द्विनवतिः षट् द्विषष्टिभागा भवन्ति १०९२।६,
Jain Education
For Personal & Private Use Only
www.jainelibrary.org