________________
श्रीसमवायांगे
श्रीअभय ०
व्रत्तिः
॥ ८१ ॥
दसणं देविंदस्स देवरन्नो सत्तारं सामाणियसाहस्सीओ प० ॥ सूत्रं ७० ॥
अथ सप्ततिस्थानके किमपि लिख्यते - 'समणे' इत्यादि, वर्षाणां चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे - विश| तिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्यामित्यर्थः, वर्षाखावासो वर्षावासः वर्षावस्थानं 'पज्जोसवेइ'त्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपद शुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति, 'पुरिसादाणीय'त्ति पुरुषाणामादानीयः - उपादेयः पुरुषादानीयः 'अबाहूणिया कम्मट्ठिई कम्मणिसेगे पण्णत्ते'त्ति इह किलात्मा अविशिष्टमेव कर्म्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्म्मणां स्वं स्वमवाधाकालं मुक्त्वा ज्ञानावरणीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः, अतो द्विविधा स्थितिः - कर्म्मत्वापादनमात्ररूपा अनुभवरूपा च यतः स्थितिः - अवस्थानं तेन भावेनाप्रच्यवनं तत्र कर्म्मत्वापादनरूपां तामधिकृत्य सप्ततिः सागरोपमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र 'अवाह'त्ति किमुक्तं भवति ? - बन्धावलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत्कर्म न बाधते, नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्म्मदलिकस्यानुभवनार्थ रचना, तच प्रथमसमये बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं
Jain Education International
For Personal & Private Use Only
७० सम
वाया.
॥ ८१ ॥
www.jainelibrary.org