________________
योगनिरोधलक्षणा नास्तिकत्वं वा । तथैको लोकः, त्रिविधोऽप्यसङ्ख्येयप्रदेशोऽपि वा द्रव्यार्थतया। तथा एकोऽलोका अनन्तप्रदेशोऽपि द्रव्यार्थतया, अथवैते लोकालोकयोबहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्ते च कैश्चित हवो लोकाः, अतस्तद्विलक्षणा अलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या । नवरं धर्मो-धर्मास्तिकायः, अधर्मः-अधर्मास्तिकायः, पुण्य-शुभं कर्म, पापम्-अशुभं कर्म, बन्धो-जीवस्य कर्मपुद्गलसंश्लेषः, स चैकः सामान्यतः, सर्वकर्मबन्धव्यवच्छेदावसरे वा पुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति । इह चानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वं प्रज्ञाप्य पुनर्लोकादितया यदेकत्वप्ररूपणं तत्सामान्यविशेषापेक्षमवगन्तव्यमिति ॥ एवं चात्मादीनां सकलशास्त्रप्रपञ्चानामर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मपरिणामरूपाणामर्थानां तदेवाह-'जम्बू' इत्यादि सूत्रसप्तकमाश्रयविशेषाणां तथा 'इमीसे रयणे'त्यादिसूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणां प्रतिपादनपरं सुबोधं, नवरं 'जम्बुद्दीवे दीये' इह सूत्रे 'आयामविक्खंभेणं'ति क्वचित्पाठो दृश्यते, क्वचित्तु 'चकवालविक्खंभेणं'ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः-चक्रवालविष्कम्भेन-वृत्तव्यासेन, इदं च प्रमाणयोजनमवसेयम् , यदाह-"आयङ्गलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु ॥१॥" तथा पालक-यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियो
१ आत्मांगुलेन वस्तु उत्सेधांगुलप्रमाणतो मिनु देहम् । नगपृथ्वीविमानानि मिनु प्रमाणांगुलेनैव ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org