SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्रीअभय० वृत्तिः ॥५॥ Jain Education f त्युदाहरणोपदर्शने, आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि, 'तत्थ णं'ति तत्र द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमहं समवाय इत्याख्यातं तस्यायमर्थः - आत्मादिः अभिधेयो भवतीति गम्यते, 'तद्यथे 'ति वाचनान्तरद्वितीय सम्बन्धसूत्रव्याख्येति । इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः, | तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बन्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् 'एगे आया' इत्यादिभिरष्टादशभिः सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किञ्चिदुच्यते - एक आत्मा, कथञ्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयं, तत्र प्रदेशार्थतया असङ्ख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं पूर्वस्वभावक्षया परखरूपोत्पादयोगेनानन्तभेदोऽ| पि कालत्रयानुगामि चैतन्यमात्रापेक्षया एक एव आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनानन्तत्वेऽप्यात्मनां सग्रहनयाश्रितसामान्यरूपापेक्षयैकत्वमात्मन इति । तथा न आत्मा अनात्मा - घटादिपदार्थः, सोऽपि प्रदेशार्थतया सत्यासयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एक एव, एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैकस्वभावयुक्तत्वात्कथञ्चिद्भिन्नखरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्वमवसेयमिति । तथा एको दण्डो दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्रं वा, एकत्वं चास्य सामान्यनयादेशाद, एवं सर्वत्रैकत्वमवसेयं । तथैकोदण्डः - प्रशस्तयोगत्रयमहिंसामात्रं वा । तथैका क्रिया- कायिक्यादिका आस्तिक्यमात्रं वा । तथैका अक्रिया For Personal & Private Use Only १ सम वायः ॥ ५ ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy