________________
Jain Education I
इति तारकस्तेन, तथा बुद्धेन जीवादितत्त्वं, तथा बोधकेन जीवादितत्त्वमेवापरेषां तथा मुक्तेन वाह्याभ्यन्तरग्रन्थिबन्धनात्, मोचकेन तत एव परेषां तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात्, अचलं स्वाभाविकप्रायोगिक चलनहेत्वभावात्, अरुजम् - अविद्यमानरोगं, शरीरमनसोरभावात्, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात्, अक्षयम् - अनाशं साद्यपर्यवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात्, 'अपुनरावर्तकम्' अविद्यमान पुनर्भवाबतारं तद्वीजभूतकर्माभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं तिष्ठति यस्मिन् कर्मकृद्वि| काररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं - क्षीणकर्मणो जीवस्य खरूपं लोकाग्रं वा, जीवखरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं सम्प्राप्तुकामेन – यातुमनसा न तु तत्प्राप्तेन, तत्प्रातस्याकरणत्वेन प्रज्ञापनाभावात् प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तम' इति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता 'इमं' ति इदं वक्ष्यमाणतया प्रत्यक्षमासनं च द्वादशाङ्गानि यस्मिंस्तद् द्वादशाङ्गं गणिनः- आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालञ्जुकवाणिजकस्य पिटकं सर्वखाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वखाधारकल्पं भवतीति भावः, प्रज्ञप्तं तीर्थङ्करनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितं, 'तद्यथे'
For Personal & Private Use Only
Mnelibrary.org