________________
च नव मुहूर्त्ताः सप्तविंशतिश्च सप्तषष्टिभागाः ९।६, आह च - " अभिइस्स चंदजोगो सत्तट्ठि खण्डिए अहोरत्ते । भागाओ एक्कवीसं स होंति अहिगा नव मुहुत्ता ॥ १ ॥” इति [ अभिजिति चन्द्रयोगः सप्तषष्ट्या खण्डितेऽहोरात्रे । | भागास्त्वेकविंशतिः स भवन्ति नवमुहूर्त्ताधिकाः ॥ १ ॥ ] क्षेत्रतः कालतस्तथा शतभिषग्भरण्यार्द्राश्लेषाखातिज्ये| ष्ठानां त्रयस्त्रिंशत्सप्तषष्टिभागास्तद्भागार्द्ध च क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशता गुणितायां १००५ सप्तषष्ट्या हृतभागायां यल्लब्धं तदेषां कालसीमा, तच पञ्चदश मुहूर्त्ताः, आह च – “सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छष्णक्खत्ता पन्नरसमुहुत्तसंजोगा ॥ १ ॥” इति [ शतभिषक् भरणी आर्द्रा अश्लेषा खातिर्ज्येष्ठा च । एतानि षड् नक्षत्राणि पञ्चदशमुहूर्त्तसंयोगानि ॥ १ ॥ ] तथोत्तरात्रयः पुनर्वसुरोहिणीविशाखानां सप्तषष्टिभागानां शतं तद्भागार्द्धं च क्षेत्रसीमाविष्कम्भः भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते ३०१५ तथैव हृतभागे यल्लब्धं तदेषां कालसीमा भवति सा च पञ्चचत्वारिंशन्मुहूर्त्ता इति, आह च – “तिन्नेव उत्तराई पुणचसूरोहिणी विसाहा य । एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा ॥ १ ॥” इति [ तिस्र एवोत्तराः पुनर्वसू रोहिणी विशाखा च । एतानि षड् नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्त्तानि ॥ १ ॥ ] शेषाणां पञ्चदशानां नक्षत्राणां सप्तषष्टिरेव सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यां च तथैव गुणितायां २०१० हृतभागायां च यल्लब्धं तत्काल - सीमा, तच्च त्रिंशन्मुहूर्त्ताः, आह च - " अवसेसा नक्खत्ता पन्नरसवि हुंति तीसइमुहुत्ता । चंदस्स तेहिं जोगो समा
Jain Education IBITI
For Personal & Private Use Only
elibrary.org