________________
श्रीसमवा
यांगे
श्री अभय ०
वृति:
॥७९॥
इह प्रमाणसंवादः - ' बाहा सत्तट्ठिसए पणपन्ने तिन्निय कलाओ'त्ति कला- एकोनविंशतिभागः, एतच्च बाहुप्रमाणं | हैमवतधनुः पृष्ठात् 'चत्ताला सत्त सया अडतीससहस्स दस कला य धणुं' त्येवंलक्षणात् ३८७४०।१६ हिमवद्धनुःपृष्ठे 'घणुपिट्ठ कलचउकं पणवीससहस्स दुसय तीसहिय'न्त्येवंलक्षणे २५२३०। अपनीते यच्छेषं तदर्द्धकृतं सद्भवतीति, आयामेन - दैर्घ्यणेति । 'मंदरस्से' त्यादि, मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशि जगति बाह्यांतपर्यवसानः पञ्चपञ्चाशद्योजनसहस्राणि तावदस्ति, ततः परं द्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात्, यद्यपि सूत्रपुस्तकेषु गौतम - शब्दो न दृश्यते तथाप्यसौ दृश्यः, जीवाभिगमादिषु लवणसमुद्रे गौतमचन्द्ररविद्वीपान् विना द्वीपान्तरस्याश्रूयमाणत्वादिति । 'सवेसिंपि ण' मित्यादि, सर्वेषामपि णमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः - पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्र विस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो- विभक्तः समांशः- समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदना भवति, भागान्तरेण न भक्तुं शक्यते इत्यर्थः तथाहि - नक्षत्रे - णाहोरात्रगम्यस्य क्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां ६३० सप्तषष्ट्या हृतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा
Jain Education International
For Personal & Private Use Only
६७ सम
वाया.
॥ ७९ ॥
www.jainelibrary.org