SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४ सम० Jain Education एवमिदमन्यत्रोच्यते- 'दो वारे विजयाइसु गयस्स तिन्निऽचुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सङ्घद्धा ॥ १ ॥ इति [ द्वे वारे विजयादिषु गतस्य त्रीन् वारान् अथवाऽच्युते तानि । अतिरिक्तं नरभविकं नानाजीवानां सर्वाद्धा ॥ १ ॥ ] ॥ ६६ ॥ पञ्चसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसट्ठि नक्खत्तमासा प०, हेमवयएरन्नवयाओ णं बाहाओ सत्तट्ठि सत्तट्ठि जोयणसयाइं पणपन्नाइं तिण्णि य भागा जोयणस्स आयामेणं प०, मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोयमदीवस्स पुरच्छिमिले चरमंते एस णं सत्तसट्ठि जोयणसहस्साइं अबाहाए अंतरे प०, सवेर्सिपि णं नक्खत्ताणं सीमाविक्खंभेणं सत्तट्ठि भागं भइए समंसे प० ॥ सूत्रं ६७ ॥ अथ सप्तषष्टिस्थानके किञ्चिद्वित्रियते, तत्र 'पञ्चसंयच्छरी' त्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं भुङ्क्ते, स च सप्तविंशतिरहोरात्राणि एकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः २७।१७, युगप्रमाणं चाष्टादश शतानि त्रिंशदधिकानीति प्राक् दर्शितम् १८३०, तदेवं नक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिंशदुत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापित एकं लक्षं द्वाविंशतिः सहस्राणि षट् शतानि दश चेत्येवंरूपो विभज्यमानः सप्तषष्टिनक्षत्रमासप्रमाणो भवतीति, 'बाहाओ'त्ति लघुहिमवजीवायाः पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्र प्रदेशपङ्की हैमवतवर्षजीवां यावत्ते हैमवतवाहू उच्येते एवमैरण्यवतवाहू अपि भावनीये, For Personal & Private Use Only enelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy