________________
श्रीसमवा
यांगे श्रीअभय० वृत्तिः
६२ समवायाध्य.
॥७६॥
चरति । पञ्चदशभागेन च पुनरपि तावदेवानामति ॥३॥ एवं वर्धते चन्द्रः परिहाणिरेवं भवति चन्द्रस्य । कृष्णता वा ज्योत्स्ना वैतदनुभावेन चन्द्रस्य ॥४॥] तथा तत्रैवोक्तम्- “सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवड्डए जोण्हा ॥१॥” इति । [षोडशभागान् कृत्वोडपतिहीयतेऽथ पञ्चदश । तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्स्ना ॥१॥] तदेवं भणितद्वयानुसारेणानुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशे चन्द्रदिने सर्वे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं ब्याख्यानमेतत् , जीवाभिगमे तु 'बावडिं २' गाहा तथा 'पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते-'बावडिं' |२ इत्यत्र द्विषष्टि २ र्भागानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धते चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह-पन्नरस' इत्यादिना, चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः पञ्चदशभिर्भागोऽपहियते ततश्चत्वारो भागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागेन चोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीय|मिति, अत्रास्माभिर्यथादृष्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति ।[१ यद्यकमंशं दर्शयश्चंन्द्रश्चरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयो जायेते पञ्चदशभिश्च दिनराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org