________________
माच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं] 'सोहम्मी'यादि, तत्र सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदश ब्रह्मलोके षट् लान्तके पञ्च शुक्र चत्वार एवं सहस्रारे आनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः २ अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति,
एतेषां च मध्यभागे प्रत्येकमुड्डविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भ-18 8 वन्ति, तत्पार्श्वतश्च पूर्वादिषु दिक्षु व्यस्रचतुरस्रवृत्तविमानक्रमेण विमानानामावलिका भवन्ति, तदेवं सौधर्मेशा-14 नयोः कल्पयोः प्रथमे प्रस्तटे-सर्वाधस्तन इत्यर्थः 'पढमावलियाए'त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्र आवलिका यस्मिन् स प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका-विमानानुपूर्वी तया अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा-आद्यावलिका तस्यां 'पढमावलिय'त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमावलिका सा द्विपष्टिर्द्विपष्टिविमानप्रमाणेन प्रज्ञतेति, 'एगमेगाए'त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषष्टिविमानानि प्रज्ञप्तानि, द्वि|तीयादिषु पुनः प्रस्तटेपु एकैकहान्या विमानानि भवन्ति यावद्विषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्थे तदेकैकमेव भवतीति, तथा 'सो'त्ति सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विपष्टिविमानप्रस्तटा-विमानप्रस्तराः प्रस्तटाग्रण-प्रस्तटपरिमाणेन प्रज्ञप्ता इति ॥ ६२॥
din Education
For Personal & Private Use Only
helbrary.org