________________
द्वौ द्वावेवाभिषिच्येते अतो द्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानी दिवससद्भावात् न भरतैरावतयो|र्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति, 'पढमे'त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पञ्चम्यां त्रीणि षष्ठया पञ्चोनं लक्षं सप्तम्यां पञ्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशलक्षाणि भवन्तीति ॥ ३४ ॥ पणतीसं सच्चवयणाइसेसा प०, कुंथू णं अरहा पणतीसं धणूइं उर्दू उच्चत्तेणं होत्था, दत्ते णं वासुदेवे पणतीसं धणूई उहुं उच्चतेणं होत्था, नंदणे णं बलदेवे पणतीसं धणूई उड्डे उच्चत्तेणं होत्था, सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेद्दा उवरिं च अद्धतेरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीस जोयणेसु वइरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ प०, बितियचउत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा प०॥ सूत्रं ३५॥
पञ्चत्रिंशत्तमस्थानकं सुगम, नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरदृष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यं, तद्यथा-संस्कारवत् १ उदात्तं २ उपचारोपेतं ३ गम्भीरशब्दं ४ अनुनादि ५ दक्षिणं ६ है उपनीतरागं ७ महाथ ८ अव्याहतपौर्वापर्यं ९ शिष्टं १० असन्दिग्धं ११ अपहृतान्योत्तरं १२ हृदयग्राहि १३ देशकालाव्यतीतं १४ तत्त्वानुरूपं १५ अप्रकीर्णप्रसृतं १६ अन्योऽन्यप्रगृहीतं १७ अभिजातं १८ अतिस्निग्धमधुरं १९ अपरमर्मविद्धं २० अर्थधर्माभ्यासानपेतं २१ उदारं २२ परनिन्दात्मोत्कर्षविप्रयुक्तं २३ उपगतश्लाघ २४ अनपनीतं २५ उत्पादिताच्छिन्नकौतूहलं २६ अद्भुतं २७ अनतिविलम्बित २८ विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तं २९
SAHARASHTRA
Jain Education
For Personal & Private Use Only
Finelibrary.org