________________
RECONOCRORSCORRORSCIENCE
बाह्वाभरणविशेषाः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयवयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षः-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानां प्रादुर्भाव इति विंशतितमः २० 'पञ्चाहरओ'त्ति प्रत्याहरतो-व्याकुर्वतो भगवतः 'हिययगमणीओ'त्ति हृदयङ्गमः 'जोयणनीहारी ति योजनातिक्रमी खर इत्येकविंशः २१ 'अद्धमागहीए'त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लसौ मागध्या मित्यादिलक्षणवती सा असमाश्रितखकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ 'भासिजमाणीति भगवताऽभिधीयमाना 'आरियमणारियाणं ति आर्यानार्यदेशोत्पन्नानां द्विपदा-मनुष्याश्चतुष्पदा-गवादयः 'मृगा'आटव्याः ‘पशवों' ग्राम्याः पक्षिणः प्रतीताः सरीसृपा-उरःपरिसप्पा भुजपरिसपश्चेिति, तेषां किम् ?-आत्मन आत्मनः-आत्मीयया आत्मीययेत्यर्थः भाषातया-भाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा ? इत्याह-हितम्-अभ्युदयः शिवं-मोक्षः सुखं-श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ 'पूर्वबद्धवरे'त्ति पूर्व-भवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्ये देवा वैमानिका असुरा नागाश्च-भवनपतिविशेषाः सुवर्णाः-शोभनवर्णोपेतत्वाज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धवों
K
Jain Education
For Personal & Private Use Only
aryong