SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अथ चतस्त्रिंशत्तमस्थानके किमपि लिख्यते-'बुद्धाइसेस' त्ति बुद्धानां-तीर्थकृतामतिशेषाः-अतिशया बुद्धातिशेषाः. अवस्थितं-अवृद्धिखभावं केशाश्व-शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ निरामया-नीरोगा निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः३तथा पमं च-कमलं [च गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारअभ्यवहरणमूत्रपुरीषोत्सर्गी, प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमं ५ एतच द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययं । तथा 'आगासगय'ति आकाशगतं-व्योमवर्ति आका-11 शगतं (क) वा-प्रकाशमित्यर्थः, चक्र-धर्मचक्रमिति षष्ठः ६ एवमाकाशगं छत्रं छत्रत्रयमित्यर्थ इति सप्तमः ७ आकाशके-प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ 'आगासगओ'त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः ‘कुडभि'त्ति लघुपताकाः संभाव्यन्ते ताभिः परिमण्डितश्चासावभिरामश्च-अभिरमणीय इति विग्रहः 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' त्ति जिनस्या|ग्रतो गच्छतीति दशमः १. 'चिट्ठन्ति वा निसीयन्ति वत्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति-उपविशन्ति 'तक्ख ११ सम. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy