________________
खतोऽन्यतश्चोपकारं न करोति, कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह-ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्विद्वेषेण, असमर्थो वाऽयं बालत्वादिना किं कृतेनास्य ?, पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, 'शठः'
कैतवयुक्तः शक्तिलोपनात् निकृतिः-माया तद्विषये प्रज्ञानं यस्य स तथा, ग्लानःप्रतिचरणीयो मा भवत्विति ग्लानहै वेषमहं करोमीति विकल्पवानित्यर्थः, अत एव च कलुषाकुलचेताः आत्मनश्चाबोधिको-भवान्तराप्राप्तव्यजिनधमको ग्लानाप्रतिजागरेणाज्ञाविराधनात् , चशब्दात्परेषां चाबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात् , ये हि तदीयं ग्लानाप्रतिजागरणमुपलभ्य जिनधर्मपराजुखा भवन्ति तेषामबोधिस्तत्कृतेति स एवम्भूतो महामोहं| प्रकरोतीति पञ्चविंशतितमं २५ । कथा-वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि-कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनो दुर्गतावधिकारित्वकरणात्, कथया वा क्षेत्राणि कृषत गामसूयतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा-राजकथादिका अधिकरणानि च-यत्रादीनि कलहा वा कथाधिकरणानि तानि सम्प्रयुंक्ते पुनः पुनः एवं 'सर्वतीर्थभेदाय' संसारसागरतरणकारणत्वात् तीर्थानि-ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षड्विंशतितम २६ । 'जे य आहम्मिए' कण्ठ्यम् , नवरं अधार्मिकयोगा-निमित्तवशीकरणादिप्रयोगाःकिमर्थ?-श्लाघाहेतोः सखिहेतोः-मित्रनिमित्तमित्यर्थः इति सप्तविंशतितमं २७ । यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् 'ते'त्ति विभक्तिपरिणामात्तैस्तेषु
सम.
dain Education
For Personal & Private Use Only
T
anelibrary.org