SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ R MEACCORNER AMACHCARE हेयोपादेयवस्तुस्तोमप्रकाशकत्वात् तं, अत एव त्राणं-आपद्रक्षणं प्राणिनामेताशं यादृशा गणधरादयो भवन्ति, 'नवरं' प्रावचनिकादिपुरुष हत्वा महामोहं प्रकरोतीति सप्तदशं १७ । उपस्थितं प्रव्रज्यायां-अविव्रजिषुमित्यर्थः, 'प्रतिविरतं' सावद्ययोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः 'संयतं' साधु 'सुतपखिनं' तपांसि कृतवन्तं शोभनं वा ४/ तपः श्रितं-आश्रितं क्वचित् 'जे भिक्खु जगजीवणं ति पाठः, तत्र जगन्ति-जंगमानि अहिंसकत्वेन जीवयतीति जगजीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्यपक्रम्य वलादित्यर्थः, धर्मात्-श्रुतचारित्रलक्षणाझंशयति यः स| महामोहं प्रकरोतीति अष्टादशं १८ । यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयित्वेन वा जिनानां अहंतां वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये | प्रसिद्धाः 'अवर्णः' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्वात् , उक्तं च-"अजवि धावइ नाणं अजवि य अणंतओ अलोगोवि । अजविन कोइ विउहं पावन्ति सव्वन्नुयं जीवो॥१॥ अह पावति तो संतो होइ अलोओ न चेयमिटुंति" त्ति [ अद्यापि धावति ज्ञानं अद्याप्यनन्तोऽलोकोऽपि । अद्यापि || न कोऽपि ब्यूहं प्राप्नोति सर्वज्ञतां जीवः ॥ १॥ अथ प्राप्नोति तदा सान्तोऽलोको भवेत् न चेदमिष्टमिति] अदूषणं ६ चैतद्, उत्पत्तिसमय एव केवलज्ञानं युगपल्लोकालोको प्रकाशयदुपजायते, यथाऽपवरकान्तर्वर्त्तिदीपकलिका अपवरकमध्यप्रकाशखरूपेत्यभ्युपगमादिति, बाल:-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं १९ । 'नया Jan Education or For Personal & Private Use Only Hainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy