________________
sontARTARRAK
क्यानि वा भाषते 'अक्षीणझञ्झः' अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं ९ । अनायकः-अविद्यमाननायको राजा तस्य नयवान्-नीतिमानमात्यः स तस्यैव राज्ञो 'दारान्' कलत्रं द्वारं वा-अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा ?-'विपुलं' प्रचुरमित्यर्थः, 'विक्षोभ्य' सामन्तादिपरिकरभेदेन संक्षोभ्य नायकं तस्य क्षोभं जनयित्वेत्यर्थः, 'कृत्वा' विधाय णमित्यलङ्कारे प्रतिबाधं-अनधिकारिणं दारेभ्योागमद्वारेभ्यो वा, दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः १० । तथा 'उपकसन्तमपि' समीपमागच्छन्तमपि, सर्वखापहारे कृते प्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा-अनिष्टवचनावकाशं कृत्वा प्रतिलोमाभिःतस्य प्रतिकूलाभिर्वाग्भिः-वचनैरेतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः, 'भोगभोगान्' विशिष्टान् शब्दादीन् विदारयति योऽसौ महामोहं प्रकरोतीति दशमं १० । अकुमारभूतः अकुमारब्रह्मचारी सन् यः कश्चित् कुमारभूतोऽहं कुमारब्रह्मचारी अहमिति वदति, अथ च स्त्रीषु गृद्धो-वशकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा 'वसति' आस्ते स महामोहं प्रकरोतीत्येकादशं ११ । अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवासेव्याब्रह्मचर्य ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवञ्चनाय वदति, तथा य एवमशोभावहं सतामनादेयं भणन् गर्दभ इव गवां मध्ये विखरं न वृषभवन्मनोज्ञं नदति-मुञ्चति नदं-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारी बालोमूढो मायामृषा बहुशः-अनृतं प्रभूतं भापते, यश्चैवं निन्दितं भाषते, कया?-स्त्रीविषयगृया हेतुभूतया स इत्थंभूतो
Jain Education A
nal
For Personal & Private Use Only
Minelibrary.org