________________
श्रीसमवायांगे
श्रीअभय०
वृत्ति:
॥ ५२ ॥
Jain Education &
| शिरसि यः प्रहन्ति - खङ्गमुद्गरादिना प्रहरति प्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि ? - 'उत्तमाङ्गे' सर्वावयवानां प्रधानावयवे तद्विघातेऽवश्यं मरणात् चेतसा - सक्लिष्टेन मनसा न यथाकथञ्चिदित्यर्थः तथा विभज्य मस्तकं प्रकृष्टप्रहारदानेन स्फोटयति-विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् महामोहं प्रकरोतीति पञ्चमं ५ । पौनःपुन्येन प्रणिधिना - मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयति तथा हत्वा - विनाश्य इति गम्यते उपहसेत् आनन्दातिरेकात् 'जनं' मूर्खलोकं हन्यमानं, केन हत्वा ? - 'फलेन' योगभावितेन मातुलिङ्गादिना 'अदुवा' अथवा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति षष्ठम् ६ । 'गूढाचारी' प्रच्छन्नानाचारवान् निगृहयेत - गोपयेत्, खकीयं प्रच्छन्नं दुष्टमाचारं तथा मायां | परकीयां मायया खकीयया छादयेत् - जयेत् यथा शकुनिमारका श्छदैरात्मानमावृत्य शकुनीन् गृह्णन्तः खकीयमायया शकुनिमायां छादयन्ति तथा असत्यवादी 'निह्नवी' अपलापकः स्वकीयाया मूलगुणोत्तरगुणप्रति सेवायाः सूत्रार्थयोर्वा महामोहं प्रकरोतीति सप्तमं ७ । ध्वंसयति - छायया भ्रंशयति इति यः पुरुषोऽभूतेन-असद्भूतेन, कं ? - अकर्मकं - अविद्यमान| दुश्चेष्टितं आत्मकर्मणा - आत्मकृतऋषिघातादिना दुष्टव्यापारेण 'अदुवा' अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवं | त्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमं ८। जानानः यथा अनृतमेतत्परिषदः सभायां बहुजनमध्ये इत्यर्थः, सत्यामृपाणि-किञ्चित्स त्यानि बह्वसत्यानि वस्तूनि वा
For Personal & Private Use Only
३० समवायाध्य.
॥ ५२ ॥
anelibrary.org