SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 'तए ण' मित्यादि ॥ 'पुरच्छिमेणं' ति पूर्वभागे - पूर्वाह्ने इत्यर्थः 'अवद्धं' ति अपगतार्द्धमर्द्धदिवसं यावत् न कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गव्यवस्थितत्वात् 'पच्चच्छि मेणं'ति पश्चिमभागे 'अवद्धं दिवसं ति दिनार्द्ध यावत् कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गाभावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातं, 'तस्स य'त्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाओ 'त्ति अर्शासि तानि च नासिकासत्कानीति चूर्णिकार', 'तं च'त्ति तं चानगारं कृतकायोत्सर्ग लम्बमानार्शसम् 'अदक्खु' ति अद्राक्षीत्, ततश्चार्शसां छेदार्थं 'ईसिं पाडे 'ति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्त्त शक्यत इति, 'तस्स' प्ति वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्ध्या छिन्दानस्य लोभादिना त्वशुभा 'क्रियते' | भवति 'जस्स छिज्जइ' त्ति यस्य साधोरर्शासि छिद्यन्ते नो तस्य क्रिया भवति निर्व्यापारत्वात् किं सर्वथा क्रियाया अभावः १, नैवमत आह— 'नन्नत्थे'त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धर्मान्तरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति ॥ षोडशशते तृतीयः ॥ १६-३ ॥ अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - रायगिहे जाव एवं वयासी - जावतियन्नं भंते ! अन्नहलायए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति ?, णो तिणट्ठे समट्ठे, जावतियण्णं भंते ! चउत्थभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएस नेरइया वाससएणं वा वाससएहिं वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy