SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोद्देशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोदेशकः || दीर्घता चेह सञ्ज्ञात्वात् , स चैवमर्थतः-गौतम ! अष्ट कर्मप्रकृतीर्वेदयति सप्त वा मोहस्य क्षये उपशमै वा (शेषघातिक्षये चतस्रो वा ), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति । 'वेदाबंधोवि तहेव'त्ति एकस्याः|| कर्मप्रकृतेर्वेद-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां षड्विंशतितमपदरूपः, एवं चासौ- कइ णं भंते ! कम्मप्पगडीओ पण्णत्ताओ?, गोयमा ! अह कम्मपगडीओ पण्णत्ताओ, तंजहा -णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं ।जीवेणं भंते ! णाणावरणिज कम्मं वेदेमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अविहबंधए वा छबिहबंधए: वा एगविहबंधए वा' इत्यादि, तत्राष्टविधबन्धकः प्रतीतः, सप्तविधवन्धकस्त्वायुर्बन्धकालादन्यत्र, षविधबन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि तहेव'त्ति एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति ? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव-प्रज्ञापनायामिवेत्यर्थः, स चप्रज्ञापनायां पञ्चविंशतितमपदरूपः, एवं चासौ-'कइ णं भंते !' इत्यादि प्रागिव, विशेषस्त्वयं-'जीवे णं भंते ! णाणावरणिज कम्मं बंधेमाणे कइ कम्मपगडीओ वेएइ ?, गोयमा ! नियमा अठ्ठ कस्मप्पगडीओ वेएई' इत्यादि, 'बंधाबंधो'त्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, स च प्रज्ञापनायां चतुर्विंशतितमं पदं, स चैव-कह णमित्यादि तथैव, विशेषः पुनरयं-'जीवे णं भंते ! णाणावरणिज कम्मं बंधेमाणे कइ कम्मप्पगडीओ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy