________________
हचारित्वात् साधिका वर्तत इति समासान्तव्यतः पृच्छति-'जीवन इत्यादि, अधिकरणी है।
धिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति ॥ एतदेव चतुर्विंशतिदण्डके दर्शयति-'नेरइए'इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति-'जीवे 'मित्यादि, 'साहिगरणि'त्ति सह-सहभाविनाऽधिकरणेन-शरीरादिना वर्तत इति समासान्तेन्विधिः साधिकरणी, संसारिजीवस्य शरीरेन्द्रि|यरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरतिरूपस्य सहवर्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति-'अविरइं पडुच्च'त्ति, अत एव संयतानां शरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणित्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवतीत्यर्थः, स च न भवति, अविरतेरधिकरणभूताया अदरवर्त्तित्वादिति, अथवा सहाधिकरणिभिः-पुत्रमित्रादि[भिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति ॥ अधिकरणाधिकारादेवेदमाह-'जीवे 'मित्यादि, 'आयाहिगरणि'त्ति अधिकरणी
कृष्यादिमान आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृष्यादि नास्ति स कथमधिकरणीति ?, अत्रोच्यते, अविरत्यहापेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणित्ति परतः-परेषामधिकरणे प्रवर्तनेनाधिकरणी पराधिकरणी,
'तदुभयाहिगरणित्ति तयोः-आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स तथेति ॥ अथाधिकरणस्यैव हेतुप्ररूपणा४र्थमाह-'जीवाणमित्यादि, 'आयप्पओगनिवत्तिए'त्ति आत्मनः प्रयोगेण-मनःप्रभृतिव्यापारेण निर्वर्तितं-निष्पा
दितं यत्तत्तथा, एवमन्यदपि द्वयम् ॥ ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिवर्त्तितादि भवि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org