________________
व्याख्याप्रज्ञप्तिः - अभयदेवीया वृत्तिः २
॥६९६॥
॥ अथ षोडशं शतकम् ॥
व्याख्यातं पञ्चदशं शतं, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोक्तं, इहापि जीवस्य जन्ममरणाद्युच्यते इत्येवं सम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा
अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उवओग लोग बलि ओही दीव उदही दिसा थणिया ॥ १ ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वयासी-अत्थि णं भंते ! अधिकरणिसि वाउयाए वक्कमति ?, हंता अस्थि, से भंते ! किं पुढे उद्दाह अपुट्ठे उद्दाइ ?, गोयमा ! पुढे उद्दाह नो अपुढे उद्दाइ, से भंते! किं ससरीरी निकखमद्द असरीरी निक्खमहू एवं जहा खंदए जाव नो असरीरी निक्खमइ ( सूत्रं ५६९ ) । इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउयाए वक्कमति, न विणा वाउयाएणं अगणिकाए उज्जलति (सूत्रं ५६२ ) ॥
'अहिगरणी'त्यादि, 'अहिगरणि'त्ति अधिक्रियते-प्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी - लोहकाराद्युपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः, 'जर'त्ति जराद्यर्थविषयत्वाज्जरे ति द्वितीयः, 'कम्मे' त्ति कर्म्मप्रकृतिप्रभृतिकार्थविषयत्वात्कम्र्मेति तृतीयः, 'जावइयं' ति 'जावइय' मित्यनेनादिशब्देनोपलक्षितो
Jain Education International
For Personal & Private Use Only
१६ शतके उद्देशः १ अधिकण्यांवायुः अंगारका
नेरायुः सू ५६१-५६२
॥ ६९६ ॥
www.jainelibrary.org