________________
तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्य - तोऽपि स्यादिति न दोष इति, अन्ये त्वाहु:- न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृत सूत्रमन्यथा व्याख्येयं भवति, आवश्यक चूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति । 'एवं जहा उववाइए' इत्यादि भावितमेवाम्मड परिव्राजककथानक इति ॥ पञ्चदशं शतं वृत्तितः समाप्तमिति ॥
श्रीमन्महावीरजिनप्रभावाद्गोशालकाहङ्कृतिवद्गतेषु । समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति ॥ १ ॥
Jain Education International
505157
FR
॥ इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पञ्चदशं गोशालाख्यं शतकं समाप्तम् ॥
KUTUSL
For Personal & Private Use Only
www.jainelibrary.org