________________
ACES
USARASWASANA
लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उववजइ गईए सो नियमा पंचसमयाए ॥२॥ उजुयायतेगवंका दुहओवंका गई विणिहिट्ठा । जुज्जइ य तिचउवंकावि नाम चउपंचसमयाए॥३॥उववायाभावाओन पंचसमयाहवा न संतावि । भणिया जह चउसमया महल्लबंधे न संतावि ॥४॥”[सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा ।युज्यते | च जीवस्येयं पञ्चसमया लोके गतिः॥१॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पञ्चसमयया || गत्या ॥२॥ऋज्वायतैकवका द्विधावक्रा च गतिर्विनिर्दिष्टा।युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पञ्चसमयतया ॥३॥ उपपाता-1 भावान्न पञ्चसमयाऽथवा सत्यपि यथा महद्वन्धे न चतुःसमयोक्ता तथा न भणिताऽल्पत्वादिना ॥४॥] 'अपज्जत्ताबायरतेउक्काइए ण'मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेज'त्ति, एतस्येयं भावना-समयक्षेत्रादेकेन समयेनोवं गतौ द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोद्धं याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ॥ अथ लोकचरमान्तमाश्रित्याह–अपजत्तासुहुमपुढविकाइए णं भंते! लोगस्से'त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात् , पूर्वचरमान्तात्पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य ब्यादिसामयिक्येव गतिरनुश्रेणेरभावात् , एवमन्यत्रापि विश्रेणिगमन इति ॥ एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-'कहिं ण'मित्यादि, 'सट्टाणेणं'ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org