________________
३४ शतके
उद्दे.१अधः | पृथ्व्यादीनामूर्ध्वादावुत्पाद
सू. ८५१
स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः 'जहा ठाणपदे'त्ति स्थानपदं च प्रज्ञापनाया व्याख्याप्रज्ञप्तिः द्वितीयं पदं, तच्चैवं-तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एव प्रकृतअभयदेवी- स्वस्थानादिविचारमधिकृत्यौघतः 'अविसेसमणाणत्तत्ति अविशेषाः-विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अणाणत्त'त्ति या वृत्तिः अनानात्वाः-नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः 'सबलोयपरियावन्न'त्ति उपपातसमु
द्घातस्वस्थानः सर्वलोके वर्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं ॥९६१॥
तु यत्र ते आसते । समुद्घातसूत्रे 'वेउब्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति ॥ एकेन्द्रियानेव भङ्गचन्तरेण है| प्रतिपादयन्नाह-एगिदिया ण'मित्यादि, 'तुल्लहिइय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः 'तुल्लवि|सेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असङ्ख्येयभागादिनाऽधिकं-पूर्वकालबद्धकर्मापेक्षयाधिकतरं तुल्यविशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बध्नन्ति १ तथा तुल्यस्थितयः 'वेमायविसेसाहियंति वि
मात्रः-अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्ख्येयभागरूपोऽन्यस्य सङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं पूर्वकाल* बद्धकर्मापेक्षया यत्तत्तथा २ तथा 'वेमायद्विइय'त्ति विमात्रा-विषममात्रा स्थितिः-आयुर्येषां ते विमात्रस्थितयो
विषमायुष्का इत्यर्थः 'तुल्लविसेसाहियत्ति तथैव, एवं चतुर्थोऽपि, 'तत्थ णं जे ते'इत्यादि, 'समाउया समोववनग'त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, ते च पूर्वकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च पर
ॐCRACCASARALA
॥९६१॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org