________________
HAMARCHASEARCARALA
इया समाउया'इत्यादि चतुर्भङ्गी, तत्र 'समाउय'त्ति समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'समोववन्नग'त्ति विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव |च निष्ठापितवन्तः, नन्यायुःकमैवाश्रित्यैवमुपपन्नं भवति न तु पापं कर्म, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते, उक्तञ्च-"उदयक्खयक्खओवसमें"त्यादि, अत एवाह-'तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्मं समायं पट्टविंसु समायं निढविंसुत्ति प्रथमः, तथा 'तत्थ णं जे ते समाउया विसमोववन्नग'त्ति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'ते समायं पठविंसुत्ति आयुष्कविशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य 'विसमायं निहविसत्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया | निष्ठासम्भवादिति द्वितीयः, तथा 'विसमाउया समोववन्नग'त्ति विषमकालायुष्कोदयाः समकालभवान्तरोत्पत्तयः |'ते णं पावं कम्मं विसमायं पट्ठविंसु समायं निट्ठविंसुत्ति तृतीयः, चतुर्थः सुज्ञात एवेति, इह चैतान भङ्गकान् प्राक्तन| शतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम्-"पट्ठवणसए किहणु हु समाउउववन्नएसु चउभंगो। किह व समजणणसए गमणिज्जा अत्थ
ओ भंगा? ॥१॥ पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा। यथा पृच्छाभङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेह | समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । “कम्मसमजणणसए बाहुल्लाओ समाउन्जा ॥२॥" [[प्रस्थापनशते समायुरुत्पन्नेषु चतुर्भङ्गी कथं नु कथं वा समर्जनशते भङ्गा अर्थतो गम्याः १ ॥१॥ प्रस्थापनशते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org