SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ MUSALMAANA प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्बद्धा पुनर्न भन्स्यतीत्येतन्नास्ति, तस्य चरमभवाभावात् , तृतीयस्तु स्यात् , चतुर्थोऽपि न उक्तयुक्तरेवेति । 'सम्मामिच्छत्ततइयचउत्थ'त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावादिति । असुरकुमारदण्डके 'कण्हलेसेवि चत्तारि भंग'त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति । पृथिवीकायिकदण्डके 'कण्हपक्खिए पढमतइया भंग'त्ति, इह युक्तिः पूर्वोकैवानुसरणीया ॥ तेजोलेश्यापदे तृतीयो भङ्गः, कथं ?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायां चापगतायामायुर्बध्नाति तस्मात्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे न बध्नाति तेजोलेश्याव| स्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, 'एवं आउक्काइयवणस्सइकाइयाणवि'त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गी, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेऊक्काइए'इत्यादि, तेजस्कायिकवायुकायिकानां सर्वत्र एकादशस्वपि स्थानकेष्वित्यर्थः प्रथमतृतीयभङ्गौ भवतस्तत उद्वृत्तानामनन्तरं मनुष्येप्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां "सत्तममहिनेरइया तेउवाऊ अणंतरुबट्टा। न य पावे माणुस्सं तहेवऽसंखाउआ सवे ॥१॥" [ सप्तममहीनारकास्तेजोवायवोऽनन्तरोद्वृत्ताः मानुष्यं न प्राप्नुवन्ति तथैव सर्वे स्युरसङ्ख्यातायुषः॥१॥] इति वचनादिति । 'बेइंदिए'इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, यतस्तत उद्धृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy