SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ व्याख्या 'पावं कम्मति अशुभं कर्म 'बंधी'ति बद्धवान् 'बंधइ'त्ति वर्तमाने 'बंधिस्सइ'त्ति अनागते इत्येवं चत्वारो भङ्गा बद्ध- २६ शतके प्रज्ञप्तिः वानित्येतत्पदलब्धाः, 'न बंधी'त्येतत्पदलभ्यारित्वह न भवन्ति, अतीतकालेऽबन्धकस्य जीवस्यासम्भवात् , तत्र च बद्ध- | उद्देशः १ अभयदेवी- वान् बध्नाति भन्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बन्नाति न भन्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं जीवादीनां या वृत्तिः२ भव्यविशेषमाश्रित्य, बद्धवान् न बध्नाति भन्स्यतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यविशेषमाश्रित्य, ततः प्रतिप पापबन्धा दिसू ॥९२९॥ तितस्य तस्य पापकर्मणोऽवश्यं बन्धनात्, बद्धवान् न बनाति न भन्त्स्यतीति चतुर्थः क्षीणमोहमाश्रित्येति ॥ ८१०-८११ लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्माच्छुक्ललेश्यस्य पापकर्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्च६ कयुक्तस्य त्वाद्यमेव भङ्गकद्वयं, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्य-16 द्वयाभावः, द्वितीयस्तु तस्य संभवति, कृष्णादिलेश्यावतः कालान्तरे क्षपकत्वप्राप्तौ न भन्स्यतीत्येतस्य सम्भवादिति, अलेश्यः-अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति ॥ पाक्षिकद्वारे-कृष्णपाक्षिकस्या|द्यमेव भङ्गकद्वयं, वर्तमाने बन्धाभावस्य तस्याभावात् , शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान् बन्नाति भन्स्यति |च प्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये १ तथा बद्धवान् बध्नाति न भन्त्स्यति क्षपकत्वप्राप्तौ २ तथा बद्धवान् न | बध्नाति चोपशमे भन्स्यति च तत्प्रतिपाते ३ तथा बद्धवान्न बनाति न च भन्स्यति क्षपकत्व इति ४, अत एव आह'चउभंगो भाणियबो'त्ति, ननु यदि कृष्णपाक्षिकस्य न भन्स्यतीत्यस्यासम्भवाद्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्या- ॥९२९॥ वश्यं सम्भवात्कथं तत्प्रथमभङ्गकः? इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽबन्धकत्वस्याभावात् , उक्तं च वृद्धैरिह HABAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy