________________
'राग' इत्यादि 'ए' त्ति लवकः- उत्प्लवनकारी ' पवमाणे'त्ति प्लवमानः- उत्प्लुतिं कुर्वन् 'अज्झव साणनिवत्तिएणं ति उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन 'करणोपायेणं'ति उत्प्लवनलक्षणं यत्करणं - क्रियाविशेषः स एवोपायः - स्थानान्तरप्राप्तौ हेतुः करणोपाय स्तेन 'सेयकाले 'त्ति एष्यति काले विहरतीति योगः, किं कृत्वा ? इत्याह- 'तं ठाणं' ति यत्र स्थाने स्थितस्तत्स्थानं 'विप्रजहाय' लवनतस्त्यक्त्वा 'पुरिमं'ति पुरोवर्त्तिस्थानम् 'उपसम्पद्य' विहरतीति योगः 'एवामेव ते जीव'त्ति दान्तिकयोजनार्थः, किमुक्तं भवति ? इत्याह- 'पवओविव पवमाण'त्ति, 'अज्झवसाणनिवत्तिएण 'ति तथाविधाध्यवसायनिर्वर्त्तितेन 'करणोवाएणं'ति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणंकर्म्म लवन क्रियाविशेषो वा करणं करणमिव करणं - स्थानान्तरप्राप्तिहेतुतासाधर्म्यात्कर्मैव तदेवोपायः करणोपायस्तेन 'तं भवं'ति मनुष्यादिभवं 'पुरिमं भवंति प्राप्तव्यं नारकभवमित्यर्थः 'अज्झवसाणजोगनिवत्तिएणं'ति अध्यवसानं - | जीवपरिणामो योगश्च - मनःप्रभृतिव्यापारस्ताभ्यां निर्वर्त्तितो यः स तथा तेन 'करणोवाएणं'ति करणोपायेन - मिथ्यात्वा| दिना कर्म्मबन्धहेतुनेति ॥ पञ्चविंशतितमशतेऽष्टमः ॥ २५८ ॥ एवं नवमदशमैकादशद्वादशाः ॥ २५।९।१०।११।१२ ॥ पञ्चविंशतितमं शतं वृत्तितः परिसमाप्तमिति ॥ २५ ॥
Jain Education International
क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं क्वचिच्छान्दीं वृत्तिं क्वचिदपि गमं वाच्यविषयम् । क्वचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम् ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org