________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः २
॥ ९२५ ॥
| व्यापाराणां प्रयोग इत्यर्थः 'अन्भासवत्तियं'ति अभ्यासो-गौरव्यस्य समीपं तत्र वर्त्तितुं शीलमस्येत्यभ्यासवर्त्ती तद्भावोऽभ्यासवर्त्तित्वं, अभ्यासे वा प्रीतिकं प्रेम, 'परछंदाणुवत्तियंति परस्य - आराध्यस्य छन्दः - अभिप्रायस्तमनुवर्त्तयतीत्ये| वंशीलः परच्छन्दानुवत्तीं तद्भावः परच्छन्दानुवर्त्तित्वं 'कज्जहे 'ति कार्यहेतोः - ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं 'कयपडिकइय'त्ति कृतप्रतिकृ (ति)ता नाम विनयात्प्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः 'अत्तग| वेसणय'त्ति आर्त्त - ग्लानीभूतं गवेषयति भैषज्यादिना योऽसावार्त्तगवेषणस्तद्भाव आर्त्तगवेषणता 'देसकालण्णय'त्ति | प्रस्तावज्ञता अवसरोचितार्थसम्पादनमित्यर्थः 'सङ्घत्सु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति । | वैयावृत्त्यस्वाध्यायभेदाः प्रतीता एव, नवरं 'थेरवेयावच्चे'त्ति इह स्थविरो जन्मादिभिः 'तवस्सिवेयावच्चे'त्ति तपस्वी | चाष्टमादिक्षपकः ॥ ध्यानसूत्रे - 'अमणुन्नसंपओगसंपउप्न्ते तस्स विप्पओगसइसमन्नागए यावि भवइ' त्ति अमनोज्ञ:| अनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा स च तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्वि|| प्रयोगस्मृतिसमन्वागतश्चापि भवति विप्रयोगचिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्त्तध्यानं | स्यादिति शेषः, धर्म्मधर्मिणोरभेदादिति १ ' मणुन्नसंपओगसंपन्ते तस्स अविप्पओगसइसमन्नागए यावि भवइत्ति प्राग्वन्नवरं मनोज्ञं धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः २ 'आयंकसंपओ' इत्यादि, इहातङ्को - रोगः ३ 'परिझुसिय| कामभोगसंपओगसंपत्ते तस्स अविष्पओगसइसमन्नागए यावि भवइ'त्ति व्यक्तं नवरं 'परिझुसिय'त्ति 'जुषी | प्रीतिसेवनयो:' इतिवचनात् सेवितः प्रीतो वा यः कामभोगः - शब्दादिभोगो मदनसेवा वा 'तस्स'त्ति तस्य कामभोग
Jain Education International
For Personal & Private Use Only
२५ शतके उद्देशः ७
ध्य व्युत्सर्गः सू
८०३-८०४
॥ ९२५ ॥
www.jainelibrary.org