________________
ASSOCISCOASTRA
विणए'त्ति सामायिकादिचारित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयारविणए'त्ति लोकानामुपचारो-व्यवहारः |पूजा वा तद्रूपो यो विनयः स तथा 'सुस्सूसणाविणए'त्ति शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणचासाय
णाविणए'त्ति अत्याशातना-आशातना तन्निषेधरूपो विनयोऽनत्याशातनाविनयः "किरियाए अणचासायणाए'त्ति इह | क्रिया-अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते 'संभोगस्स अण-४ चासायणाए'त्ति सम्भोगस्य-समानधाम्मिकाणां परस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जन 'भत्तिबहुमाणेणं'ति इह णंकारो वाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्च इह बाह्या परिजुष्टिः बहु|मानश्च-आन्तरः प्रीतियोगः 'वन्नसंजलणय'त्ति सद्भूतगुणवणेनेन यशोदीपनं 'पसत्थमणविणए'त्ति प्रशस्तमन एव प्रवर्तनद्वारेण विनय:-कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनयः 'अपावए'त्ति सामान्येन पापवर्जितं विशेषतः पुनरसावा-क्रोधाद्यवद्यवर्जितं 'अकिरिए'त्ति कायिक्यादिक्रियाऽभिष्वङ्गवर्जितं 'निरुवक्केसं'ति स्वगतशोकाद्युपक्लेशवियुक्तं 'अणण्हयकरे'त्ति अनाश्रवकरं प्राणातिपाताद्याश्रवकरणरहितमित्यर्थः 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरायासो यत् तत्करणशीलं न भवति तदक्षपिकरं 'अभूयाभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनं, प्रशस्तवाग्विनयसूत्रे 'अपावए'त्ति अपापवाक्प्रवर्त्तनरूपो वाग्विनयोऽपापक इति, एवमन्येऽपि, 'आउत्तं'ति आगुप्तस्य-संयतस्य सम्बन्धि यत्तदागुप्तमेव 'उल्लंघणं ति ऊर्द्ध लवनं द्वारार्गलावरण्डकादेः 'पल्लंघणं'ति प्रलवनं-प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः 'सवें दियजोगजुंजण'त्ति सर्वेषामिन्द्रिय
dan Education International
For Personal & Private Use Only
www.jainelibrary.org