SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९२४ ॥ 'ठाणाइए' त्ति स्थानं - कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगो वा, 'जहा उववाइए'त्ति, अनेनेदं सूचितं- 'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः - मासिक्यादयः, वीरासनं च सिंहासननिविष्टस्य | भून्यस्तपादस्य सिंहासनेऽपनीते यादृशमवस्थानं, निषद्या च-पुताभ्यां भूमावुपवेशनं, 'सोइंदियविसयप्पयारनिरोहो व'त्ति श्रोत्रेन्द्रियस्य यो विषयेषु - इष्टानिष्टशब्देषु प्रचारः - श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो - निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोदियविसए' इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषु च 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनि| ग्रहो - रागद्वेषनिरोधः 'मणस्स वा एगत्ती भावकरणं' मनसो वा 'एगत्त'त्ति विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य |करणमेकताभावकरणं, आत्मना वा सह यैकता- निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा 'वईए वा एगन्ती भावकरणं' ति वाचो वा विशिष्टैकाग्रत्वेनै कतारूपभावकरणमिति 'सुसमाहियपसंत साहरियपाणिपाए ति सुष्ठु समाहितः| समाधिप्राप्तो बहिर्वृत्त्या स चासौ प्रशान्तश्चान्तर्वृत्त्या यः स तथा संहृतं - अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः | कर्म्मधारयः ' कुम्मो इव गुत्तिदिए'त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव ? - कूर्म्म इव, कस्यामवस्थायामित्यत एवाह - 'अल्लीणे पल्लीणे'त्ति आलीनः - ईषल्लीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्म्मधारयः, 'सोमिलुद्देसए'त्ति अष्टादशशतस्य दशमोदेशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् ॥ 'पायच्छित्ते'त्ति इह प्रायश्चित्तशब्देनापराध शुद्धिरुच्यते, | 'वेयावच्चं 'ति वैयावृत्त्यं - भक्तपानादिभिरुपष्टम्भः 'नाणविणए'त्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्ति बहुमान - | तद्दृष्टार्थभावना विधिग्रहणाभ्यासरूपः 'दंसणविणए'त्ति दर्शनविनयः सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'चरित - Jain Education International For Personal & Private Use Only २५ शतके उद्देशः ७ ध्यानानि व्युत्सर्गः सू ८०३-८०४ ॥ ९२४ ॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy