________________
'दुविहे'त्यादि, 'बाहिरिए यत्ति बाह्य-बाह्यस्यापि शरीरस्य तापनात् मिथ्यादृष्टिभिरपि तपस्तयाऽभ्युपगमाञ्च |'अभितरिए यत्ति आभ्यन्तरम्-अभ्यन्तरस्यैव कार्मणाभिधानशरीरस्य प्रायस्तापनात्सम्यग्दृष्टिभिरेव प्रायस्तपस्तया:भ्युपगमाञ्चेति 'ओमोयरिए'त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपि न्यूनताकरणं सोच्यते, 'इत्तरिए यत्ति अल्पकालीनं 'आवकहिए यत्ति यावत्कथिकं-यावज्जीविकं, 'पाओवगमणे'त्ति पादपवनिस्पन्दतयाऽवस्थानं, 'नीहारिमे'त्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निहरणीयं स्यादितिकृत्वा निहरिमं, 'अणीहारिमे य'त्ति अनिर्हारिमं यद् गिरिकन्दरादौ प्रतिपद्यते, 'चियत्तोवगरणसाइज्जणय'त्ति 'चियत्तस्स'त्ति लक्षणोपेतता संयतस्यैव 'साइजणय'त्ति स्वदनता परिभोजनमिति, चूण्या तूक्तं-'जं वत्थाइ धारेइ समिवि ममत्तं नस्थि, जइ कोइ मग्गइ तस्स देइ' त्ति, 'अप्पकोहे'त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति 'अप्पसद्देत्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् 'अप्पझंझे'त्ति इह झञ्झा-विप्रकीर्णा कोपविशेषाद्वचनपद्धतिः, चूा तूक्तं-झंझा अणत्थयबहुप्पलावित्तं' 'अप्पतुमंतुमेत्ति तुमन्तुमो-हृदयस्थः कोपविशेष एव, 'दवाभिग्गहचरए'त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाद्रव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए'त्ति, अनेनेदं सूचितं-'खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिए'
त्ति शुद्धैषणा-शङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए'त्ति सायाप्रधानाः पश्चषादयो दत्तयो-13 द भिक्षाविशेषा यस्य स तथा, 'जहा उववाइए'त्ति अनेनेदं सूचितम्-'आयंबिलिए आयामसित्थभोई अरसाहारे' इत्यादि,
वर्या तूतं-'झंझा अणत्यादविवक्षणाव्याभिग्रहवाए कालाभिग्गहचरण मन्नएत्ति समाप्रधाना
Cak
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org