________________
प्रतिच्छन्नं प्रच्छन्नं-अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति, 'सदाउलयंति शब्दाकुलं-बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजण'त्ति बहवो जना-आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, 'अवत्त'त्ति अव्यक्तःअगीतार्थस्तस्मै आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, 'तस्सेवित्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवीति, यतः समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति ॥ 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इति, उच्यते, जातिसम्पन्नःप्रायोऽकृत्यं न करोत्येव कृतं च सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्याः प्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गीकरोति, क्षान्तो-गुरुभिरुपालम्भितो न कुप्यति, दान्तो-दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी-अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वन्निर्जराभागी भवतीति ॥ 'आयारव' मित्यादि, तत्र 'आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'आहारवं'ति आलोचितापराधानामवधारणावान् ववहारवं'ति आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उबीलए'त्ति अपनीडकः-लज्जयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलज्जीकृत्य सम्यगालोचनां कारयतीत्यर्थः 'पकुवए'त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः 'अपरिस्सावित्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org