________________
यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजए'ति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो | देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए' इत्यादि, तत्रोत्सर्पिण्यामादि| तीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं भवतीति, तीर्थं च तस्य सार्द्धं द्वे वर्षशते भवतीत्यत उक्तं- ' अड्डाइज्जाई' इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उक्को सेणं पन्नास 'मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो वाससयाई'ति, कथम् ?, उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षैर्म्यूने ते इति देशोने इत्युक्तं, एतच्च टीकाकार व्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देणाओ दो पुचकोडीओ'न्ति, कथम् १, अवसपिण्यामादितीर्थकरस्यान्तिके पूर्वकोव्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति || अन्तरद्वारे - 'छेओवट्ठावणिए' त्यादौ 'जहनेणं तेवट्ठि वाससहस्साई 'ति, कथम् 2, अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयं प्रवर्त्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सपिण्याचैकान्तदुष्पमायां च तत्प्रमाणायामेव तदभावः स्यात् एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्को सेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org