SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ १५ गोशालकशतं ॥६८३॥ च्छेइ'त्ति नितरां दुष्टमभिधत्ते 'निच्छोडणाहिं ति त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः 'निच्छोडेइ'त्ति प्राप्तमर्थ त्याजयतीति 'नटेसि कयाइ'त्ति नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'कयाइ'त्ति कदाचिदिति वितर्कार्थः अहमेवं | मन्ये यदुत नष्टस्त्वमसीति 'विणटेसि'त्ति मृतोऽसि 'भट्ठोसित्ति भ्रष्टोऽसि-सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य योगपद्येन योगात् नष्टविनष्टभ्रष्टोऽसीति 'नाहि तेत्ति नैव ते । 'पाईणजाणवए'त्ति प्राचीनजानपदः प्राच्य इत्यर्थः 'पवाविए'त्ति शिष्यत्वेनाभ्युपगतः 'अब्भुवगमो पवज'त्ति वचनात्, 'मुंडाविए'त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् | 'सेहाविए'त्ति व्रतित्वेन सेधितः बतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाविए'त्ति शिक्षितस्तेजो| लेश्याधुपदेशदानतः 'बहुस्सुईकए'त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् 'कोसलजाणवए'त्ति अयोध्यादेशोत्पन्नः। 'वाउकलियाइ वत्ति वातोत्कलिका स्थित्वा २ यो वातो वाति सा वातोत्कलिका 'वायमंडलियाइ वत्ति मण्डलिकाभिर्यो वाति 'सेलंसि वा' इत्यादौ तृतीयार्थे सप्तमी 'आवरिजमाणि त्ति स्खल्यमाना 'निवारिजमाणि'त्ति निवर्त्यमाना |'नो कमइ'त्ति न क्रमते' न प्रभवति 'नो पक्कमइत्तिन प्रकर्षेण क्रमते 'अंचितांचिंति अश्चिते-सकृद्गते अश्चितेन वा-सकृद्गतेन देशेनाश्चिः-पुनर्गमनमश्चिताञ्चिः, अथवाऽच्या-गमनेन सह आञ्चिः-भागमनमच्याश्चिर्गमागम इत्यर्थः तां करोति 'अन्नाइडे'त्ति 'अन्वाविष्टः' अभिव्याप्तः 'सुहत्थि'त्ति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे'त्ति यथाप्रधानो जनो यो यः प्रधान इत्यर्थः, 'अगणिझामिए'त्ति अग्निना ध्मातो-दग्धो ध्यामितो वा ईषदग्धः 'अगणिझूसिए'त्ति अग्निना सेवितः क्षपितो वा 'अगणिपरिणमिए'त्ति अग्निना परिणामितः-पूर्वस्वभावत्याजनेनात्मभावं नीतः, ततश्च हततेजा धूल्या ॥६८३॥ S १ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy