________________
व्याख्याप्रज्ञसिः अभयदेवीया वृत्तिः२
॥ ९०६ ॥
|देसूणं, एवं जाव नियंठस्स । सिणायस्स पुच्छा, गोयमा ! नत्थि अंतरं ॥ पुलायाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० एक्कं समयं उक्को० संखेज्जाई वासाई । बउसाणं भंते ! पुच्छा, गोयमा ! नत्थि अंतरं, एवं जाव कसायकुसीलाणं । नियंठाणं पुच्छा, गोयमा ! जह० एक्कं स० उक्कोसेणं छम्मासा, सिणायाणं जहा बउसाणं ३० ॥ (सूत्रं ७८०
'पुलाए ण' मित्यादौ, 'जहन्नेणं अंतोमुहुत्तं'ति पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्त्तापरिपूर्ती पुलाको न म्रियते नापि | प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्यन्तर्मुहूर्त्तमेतत्प्रमाणत्वादेतत्स्वभावस्येति । 'बउसे' इत्यादि, 'जहन्त्रेणमेकं समयं 'ति बकुशस्य चरणप्रतिपत्त्यनन्तरसमय एव मरणसम्भवादिति, 'उक्कोसेणं देसूणा पुनकोडि 'त्ति | पूर्वकोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति । 'नियंठे ण' मित्यादौ 'जहन्नेणं एक्कं समयं ति उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मरणसम्भवात्, 'उक्कोसेणं अंतोमुहुत्तं'ति निर्ग्रन्थाद्धाया एतत्प्रमाणत्वादिति । 'सिणाये' त्यादौ 'जहन्नेणं अंतोमुत्तं'ति आयुष्कान्तिमेऽन्तर्मुहूर्त्ते केवलोत्पत्तावन्तर्मुहूर्त्तं जघन्यतः स्नातककालः स्यादिति ॥ पुलाकादीनामेकत्वेन | कालमानमुक्तं अथ पृथक्त्वेनाह - 'पुलाया ण' मित्यादि, 'जहन्त्रेणं एवं समयं 'ति, कथम् ?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्त - कालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवं जघन्यत्वविवक्षायां द्वयोः पुलाकयोरेकत्र समये सद्भावो द्वित्वे च जघन्यं पृथक्त्वं भवतीति । 'उक्कोसेणं अंतोमुहुत्तं'ति यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्त्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्त्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूर्त्त तदेकपुलाकस्थि
Jain Education International
For Personal & Private Use Only
२५ शतके उद्देशः ६ पुलाकादिकालान्तरे सू ७७९७८०
॥९०६ ॥
www.jainelibrary.org