________________
भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति ॥ सज्ञाद्वारे - 'सन्नोवउत्ते'त्ति, इह सज्ञा - आहारादिसञ्ज्ञा तत्रोपयुक्तः - कथञ्चिदाहाराद्यभिष्वङ्गवान् सञ्ज्ञोपयुक्तः, नोसञ्ज्ञोपयुक्तस्त्वाहाराद्युपभोगेऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात्, न तु पुलाकः सरागत्वात् नैवं न हि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात् चूर्णिकारस्त्वाह - 'नोसन्ना नाणसन्न'त्ति, तत्र च पुलाकनिर्ग्रन्थस्नातकाः नोसञ्ज्ञोपयुक्ताः, ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसञ्ज्ञोपयुक्ताः, बकुशादयस्तूभयथाऽपि, तथाविधसंयमस्थानसद्भावादिति ॥ आहारकद्वारे - ' आहारए होज 'त्ति पुलाकादेर्निर्ग्रन्थान्तस्य विग्रहगत्यादीनामनाहारकत्व कारणानामभावादाहारकत्वमेव । 'सिणाए' इत्यादि, स्नातकः केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु अयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र पुनराहारक इति ॥ भवद्वारे
पुलाए णं भंते! कति भवग्गहणाई होजा 2, गोयमा ! जहन्नेणं एकं उक्कोसेणं तिन्नि । बउसे पुच्छा, गोयमा ! जह० एवं उक्कोसेणं अट्ठ, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए । सिणाए पुच्छा, गोयमा ! एक्कं २७ ॥ (सूत्रं ७७७) पुलागस्स णं भंते ! एगभवग्गहणीया केवतिया आगरिसा | प० ?, गोयमा ! जहन्नेणं एक्को उक्कोसेणं तिन्नि । बउसस्स णं पुच्छा, गोयमा ! जहन्नेणं एक्को उक्कोसेणं सतग्गसो, एवं पडिसेवणाकुसीलेवि, कसायकुसीलेविं । णियंठस्स णं पुच्छा, गोयमा ! जहन्नेणं एको उक्कोसेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org