________________
PALIOS
व्याख्या'प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥९०१॥
२५ शतके उद्देशः ६ पुलाकादेः पर्यवयोगकषायाः
सू ७६८
*98*
गच्छति शुभतरपरिणामत्वात् ,ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति, ततश्च बकुशो व्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसङ्ख्येयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थान प्राप्त इति । 'नियंठस्स जहा बउसस्स'त्ति पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः॥ चिन्तितः पुलाकोऽवशेषैः सह, अथ बकुशश्चिन्त्यते-'बउसे 'मित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्धतरपरिणामत्वात् , बकुशात्तु हीनादिविचित्रपरिणामत्वात् , प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निम्रन्थस्नातकाभ्यां तु हीन एवेति, | 'बउसवत्तवया भाणियच'त्ति प्रतिसेवाकुशीलस्तथा वाच्यो यथा बकुश इत्यर्थः, कषायकुशीलोऽपि बकुशवद्वाच्यः, केवलं पुलाकाद्वकुशोऽभ्यधिक एवोक्तः सकषायस्तु षट्स्थानपतितो वाच्यो हीनादिरित्यर्थः, तत्सरिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वादिति ॥ अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयनाह-एएसि ॥'मित्यादि ॥ योगद्वारे-'अयोगी वा होज'त्ति इहायोगी शैलेशीकरणे । उपयोगद्वारं तु सुगमत्वान्न | लिखितम् । कषायद्वारे-'सकसाई होज'त्ति पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् ।'तिसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सवलनक्रोधे उपशान्ते क्षीणे वा शेषेषु त्रिषु, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति ॥ लेश्याद्वारे
पुलाए णं भंते ! किं सलेस्से होजा अलेस्से होजा ?, गोयमा! सलेस्से होजा णो अलेस्से होजा, जह
॥९०
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org