________________
च शतानि पर्यवापरणपर्यवानं सहस्रमाचरणपर्यवानं शतमाने सत्यर्थः, विजातीयश्च ।
इत्यसोयगुणहीन इति, 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशक द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकषट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैर्व्याख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसङ्ख्येयभागाधिकः, तथा यस्य नव सहस्राणि चरणपर्यवाग्रं तस्माप्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसमयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षयाऽऽद्योऽनन्तगुणाधिक इति॥ | 'पुलाए णं भंते ! बउसस्से'त्यादि, 'परहाणसन्निगासेणं'ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशा| दिः, तत्र पुलाको बकुशाद्धीनस्तथाविधविशुद्ध्यभावात् , 'कसायकुसीलेणं समं छहाणवडिए जहेव सहाणे'त्ति पुलाकः पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् अविशुद्धसंयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद् अधिको वा स्यात् शुद्धतरसंयमस्थानवृत्तित्वात् , | यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्ख्येयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात् , व्यवच्छिन्ने च पुलाके कषायकुशील एकक एवासाचेयानि संयमस्थानानि
व्या. १५१
dain Education International
For Personal & Private Use Only
www.jainelibrary.org