________________
प्रदेशतः कृतयुग्माः, यदा तु विषमसङ्ख्यास्तदा द्वापरयुग्माः, 'विहाणादेसेण'मित्यादि, ये द्विप्रदेशिकास्ते प्रदेशार्थतया | एकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति । तिप्पएसिया णमित्यादि, समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषां, यथा चतुर्णा तेषां मीलने द्वादश प्रदेशास्ते च चतुरग्राः पञ्चानां त्र्योजाः षण्णां द्वापरयुग्माः सप्तानां कल्योजा इति, विधानादेशेन च त्र्योजा एव त्र्यणुकत्वात्स्कन्धानामिति। 'चउप्पएसिया ण'मित्यादि, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव । 'पंचपएसिया जहा परमाणुपोग्गल'त्ति सामान्यतः स्यात्कृतयुग्मादयः प्रत्येक चैकाया एवेत्यर्थः । 'छप्पएसिया जहा दुप्पएसिय'त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः, एवमुत्तरत्रापि ॥ अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह-'परमाणु' इत्यादि, परमाणुः कल्योजःप्रदेशावगाढ एव एकत्वात् द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजःप्रदेशावगाढो वा स्यात् परिणामविशेषात् , एवमन्यदपि सूत्रं नेयम् ॥ 'परमाणुपोग्गला 'मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेषां, सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजःप्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्तितः,
विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् । 'अगणंतपएसिए णं भंते ! खंधे'त्ति, इह कर्कशादिस्पर्शाधिकारे यदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव वादरस्य ।
कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत एवाह-सीओसिणनिडलुक्खा जहा वन्न'त्ति एत
*ACHLOAMROCROSAMSROCALCANCCC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org