SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः व्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, स्थापना चेयम् || 'दुहओखह'त्ति नाड्या वामपादेर्नाडी प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपार्थादौ ययोत्पद्यते सा द्विधाखा, नाडीबहिर्भूतयोमदक्षिणपार्श्वलक्षणयोर्द्वयोराकाशयोस्तया स्पृष्टत्वादिति, स्थापना चेयम् || 'चकवाल'त्ति चक्रवालं-मण्डलं, ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा चक्रवाला, सा चैवम्- 'अद्धचक्कवाल'त्ति चक्रवालार्द्धरूपा, सा चैवम् ॥ अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह'परमाणुपोग्गलाणं भंते ! इत्यादि, 'अणुसेदिन्ति अनुकूला-पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, 'विसेदिति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम् ॥ अनुश्रेणिवि|श्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नरकावासादिषु स्थानेषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नरकावासादिक प्ररूपयन्नाह-'इमीसे ण'मित्यादि, इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तत्प्ररूपणायाह'कइविहे ण' मित्यादि, 'से किं तं आयारो'त्ति प्राकृतत्वात् , अथ कोऽसावाचारः?, अथवा किं तद्वस्तु यदाचार | इत्येवं व्याख्येयम् , 'आयारेणं'ति आचारेण शास्त्रेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे 'आयारगो' इत्यनेनेदं सूचितम्-'आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामाया वित्तीओं आघवजातत्ति, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिक-विनयफले कर्मक्षयादि शिक्षा-ग्रहणासेवनाभेदभिन्ना अथवा 'वेणइय'त्ति वैनयिको विनयो वा-शिष्यस्तस्य शिक्षा वैनयिकशिक्षा विने २५ शतके उद्देशः३ आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प| बहुत्वानि सू ७२९७३३ ॥८६८॥ ॥८६८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy