________________
गयावा जहा नंदीए तिपादानेऽन्यतरगतार्थाभिधा आचारश्च गोचरश्चेत्यादिन
HOUSKROSMANGALS
यशिक्षा वा भाषा-सत्याऽसत्यामृषा च अभाषा-मृषा सत्यामृषा च चरणं-व्रतादि करणं-पिण्डविशुद्ध्यादि यात्रा-संयमयात्रा मात्रा-तदर्थमाहारमात्रा वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं आचारश्च गोचरश्चेत्यादिन्द्धस्ततश्च ता आख्यायन्ते-अभिधीयन्ते, इह च यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्थाभिधानं तत्सर्व तत्प्राधान्यख्यापनार्थमेवावसेयमिति । एवं अंगपरूवणा |भाणियबा जहा नंदीए'त्ति एवमिति-पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां सा च तत एवावधार्या, अथ कियदूरमियमङ्गप्ररूपणा नन्ाक्ता वक्तव्या इत्याह-'जाव सुत्तत्थो'गाहा, सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दरत्वेवकारार्थः स चावधारणे इति, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, माभूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्य इत्ये|वंभूतो भणितो जिनादिभिः, 'तृतीयश्च'तृतीयः पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात् , 'एषः'
अनन्तरोक्तः प्रकारत्रयलक्षणो 'भवति' स्यात् 'विधिः' विधानम् 'अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते | इति गाथार्थः॥१॥ अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह'एएसि ण'मित्यादि, 'पंचगइसमासेणं'ति पञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायांप्रज्ञापनायास्तृतीयपदे इत्यर्थः, तच्चैवमर्थतः-"नरनेरइया देवा सिद्धा तिरिया कमेण इह होति । थोवमसंखअसंखा अणंतगुणिया अणंतगुणा ॥१॥" [नरा नैरयिका देवाः सिद्धास्तिर्यञ्चः क्रमेणेह भवन्ति । स्तोका असङ्ख्या असङ्ख्याः अनन्तगुणिता अनन्तगुणाः॥२॥] 'अगइसमासप्पाबहुयं च'त्ति अष्टगतिसमासेन यदल्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम् ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org