________________
द्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमरपृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् 'सिय तेओयाओ सिय दावरजुम्माओ'त्ति दृश्य, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्ताख्योजाः, यतः | क्षुल्लकप्रतरद्वयस्याध उपरिच प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ'त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'उहाययाण'मित्यादि, इह क्षुल्लकातरद्वयमानेन या उत्थिता ऊ:यतास्ता द्वापरयुग्माः तत ऊमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन त्र्योजाः, कल्योजास्त्विह न संभवन्ति वस्तुस्वभावात् , एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्व भावनीयमिति ॥अथ |प्रकारान्तरेण श्रेणीप्ररूपणायाह-कइण'मित्यादि, श्रेणयः'प्रदेशपतयो जीवपुद्गलसञ्चरणविशेषिताः तत्र'उज्जयायत'त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्धलोकादेरधोलोकादौ ऋजुतया यान्तीति, 'एगओ वंकति 'एकत' एकस्यां दिशि 'वङ्का' वक्रा यया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति-श्रेण्यन्तरेण यान्तीति, स्थापना चेवम्-'दुहओवंक'त्ति यस्यां वारद्वयं वक्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधाक्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य | भवति, तथाहि-प्रथमसमये आग्नेय्यास्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं | सनाड्या मध्ये बहिर्वा भवतीति, 'एगओखह'त्ति यया जीवः पुद्गलो वा नाड्या वामपार्थादेस्तां प्रविष्टस्त यैव गत्वा पुनस्तद्वामपार्धादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपार्श्वलक्षणायां खस्य-आकाशस्य लोकनाडी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org