________________
श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव तत्र च 'सिय तिदिसि' मित्यादि नास्ति व्याघाताभावादिति । 'फासिंदियत्ताए जहा ओरालियसरीरं 'ति, अयमर्थः - स्पर्शनेन्द्रियतया तथा द्रव्याणि गृह्णाति यथौदारिकशरीरं स्थितास्थि| तानि षइदिगागतप्रभृतीनि चेति भावः, 'मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छद्दिसिं' ति मनोयोगतया तथा द्रव्याणि गृह्णाति यथा कार्म्मणं, स्थितान्येव गृह्णातीति भावः, केवलं तत्र व्याघातेनेत्याद्युक्तं इह तु नियमात् षदि - शीत्येवं वाच्यं, नाडीमध्य एव मनोद्रव्यग्रहणभावात्, अत्रसानां हि तन्नास्तीति, 'एवं वइजोगत्तारवित्ति मनोद्रव्यवद्वागद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा ओरालियसरीरस्स'त्ति काययोगद्रव्याणि स्थितास्थितानि पदिगागतप्रभृतीनि चेत्यर्थः । 'केइ' इत्यादि तत्र पश्च शरीराणि पञ्चेन्द्रियाणि त्रयो मनोयोगादयः आनप्राणं चेति सर्वाणि चतुदेश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति ॥ पञ्चविंशतितमशते द्वितीयः ॥ २५२ ॥
द्वितीयोदेशके द्रव्याण्युक्तानि तेषु च पुद्गला उक्तास्ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् -
कति णं भंते ! ठाणा प० १, गोयमा ! छ संठाणा प०, स० - परिमंडले वट्टे तसे चउरंसे आयते अणित्थंथे, परिमंडला णं भंते ! संठाणा वट्टयाए किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखे० नो असंखे० अनंता, वहा णं भंते ! संठाणा एवं चैव एवं जाव अणित्थंथा एवं पएसल्याएवि, एएसि णं भंते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org