SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ त्वादिति, 'पाईणपडीणायए उदीणदाहिणविच्छिन्ने'त्ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपए'त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा 'स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे, तच्चैर्व-पडिपुन्नचंदसंठाणसंठिए अचिमाली भासरासिप्पभे'इत्यादि, 'असोगवडेंसए' इत्यत्र यावत्करणात् 'सत्तिवन्नवडेंसए चंपगवडेंसए चूयवडेंसए मज्झे य बंभलोयवडेंसए'इत्यादि दृश्य, 'सुकुमालगभद्दलए'त्ति सुकुमारकश्चासौ भद्रश्च-भद्रमूर्तिरिति समासः, लकारककारौतु स्वार्थिकाविति, 'मिउकुंडलकुंचियकेसए'त्ति मृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा 'महगंडतलकण्णपीढए'त्ति मृष्टगण्डतले कर्णपीठके कर्णाभरणविशेषौ यस्य स तथा, 'देवकुमारसप्पभए'त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभोवा यःस तथा कशब्दः स्वार्थिक | इति, कोमारियाए पञ्चजाए'त्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यांप्रव्रज्यायां विषयभूतायां सङ्ख्यान-बुद्धिं प्रतिलेभ इति योगः 'अविद्धकन्नए चेव'त्ति कुश्रुतिशलाकयाऽविद्धकर्णः-अव्युत्पन्नमतिरित्यर्थः । 'एणेजस्से'त्यादि, इहैणकादयः पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति । 'अलं थिरंति अत्यर्थ स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् 'धुवंति ध्रुवं तद्गुणानां ध्रुवत्वात् अत एव 'धारणिजति धारयितुं योग्यम् , एतदेव भावयितुमाह-'सीए'इत्यादि, एवंभूतं च तत् कुतः ? इत्याह-'थिरसंघयणं ति अविघटमानसंहननमित्यर्थः 'इतिकट्ठत्ति 'इतिकृत्वा' इतिहेतो|स्तदनुप्रविशामीति । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! से जहानामए-तेणए सिया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy