________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
१५गोशालकशतेपरावृत्तपरिहारः सू५५०
॥६७६॥
JANASAMACHAR
ग्रम् १४०००] बादरबोन्दीनि-बादराकाराणि कलेवराणि-वालुकाकणरूपाणि यत्र तथा, 'ठप्पे'त्ति न व्याख्येयः इतरस्तु व्याख्येय इत्यर्थः 'अवहाय'त्ति अपहाय-त्यक्त्वा 'से कोहे'त्ति स कोष्ठो-गङ्गासमुदायात्मकः 'खीणे'त्ति क्षीणः स चावशेषसद्भावेऽप्युच्यते यथा क्षीणधान्यं कोष्ठागारमत उच्यते 'नीरए'त्ति नीरजाः स च तद्भूमिगतरजसामध्यभावे उच्यते इत्याह-'निल्लेवे'त्ति निर्लेपः भूमिभित्त्यादिसंश्लिष्टसिकतालेपाभावात् , किमुक्तं भवति ?-'निष्ठितः' निरवयवीकृत इति । 'सेत्तं सरे'त्ति अर्थ तत्तावत्कालखण्डं सरः-सरःसङ्गं भवति मानससझं सर इत्यर्थः 'सरप्पमाणे'त्ति सर एवोक्तलक्षणं प्रमाणं-वक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं 'महामाणसे'त्ति मानसोत्तरं, यदुक्तं चतुरशीतिमहाकल्पशतसहस्राणीति, तत्प्ररूपितम् , अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अणंताओ संजूहाओ'त्ति अनन्तजीवसमुदायरूपान्निकायात् 'चयं चइत्त'त्ति च्यवं च्युत्वा-च्यवनं कृत्वा चयं वा-देहं 'चइत्त'त्ति त्यक्त्वा 'उवरिल्ले'त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसे त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः 'संजूहे'त्ति निकायविशेषे देवे 'उववजइ'त्ति प्रथमो दिव्यभवः सञ्ज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरे'त्ति महामानसे पूर्वोक्तमहाकल्प-8 प्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान् शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदात्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि त्रयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न भवति, सूत्रे संयूथत्वेनानभिहित
॥६७६॥
Jain Education Inte
r nal
For Personal & Private Use Only
www.jainelibrary.org