________________
रासीइं महाकप्पसयसहस्साई इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात् , आह च चूर्णिकार:| संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिजइ'त्ति तथाऽपि शब्दानुसारेण किंश्चिदुच्यते-चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः-कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि-लक्षाणि तानि तथा, 'सत्त दिवे'त्ति सप्त 'दिव्यान्' देवभवान् 'सत्स संजूहे'त्ति | सप्त संयूथान-निकायविशेषान् , 'सत्त सन्निगन्भे'त्ति सज्ञिगर्भान्-मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारे'त्ति सप्त शरीरान्तरप्रवेशान् , एते च सप्तमसज्ञिगर्भा|नन्तरं क्रमेणावसेयाः, तथा 'पंचे'त्यादाविदं संभाव्यते "पंच कम्मणि सयसहस्साई ति कर्मणि-कर्मविषये कर्मणामि-टू त्यर्थः पञ्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्ति त्रींश्च कर्मभेदान् 'खवइत्त'त्ति 'क्षपयित्वा' अतिवाह्य । 'से जहे त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा वत्ति महाकल्पप्रमाणवाक्योपन्यासार्थः 'जहिं वा पजुवत्थिय'त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता-उपरता समाप्ता इत्यर्थः 'एस णं अद्धत्ति एष गङ्गाया मार्गः 'एएणं गंगापमाणेणं'ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'एवामेव'त्ति उक्तेनैव क्रमेण 'सपुवावरेणं'ति सह पूर्वेण गङ्गादिना यद| परं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः । 'तासिं दुविहे' इत्यादि, तासां गङ्गादीनां द्र गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहमयोंदिकलेवरे चेव'त्ति सूक्ष्मबोन्दीनि| सूक्ष्माकाराणि कलेवराणि-असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चेव'त्ति [ग्रन्था
JainEducation international
For Personal & Private Use Only
www.jainelibrary.org